________________
* श्रीगणेशाय नमः *
अथ स्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे तृतोयमरुणाचलमाहात्म्यम् तत्र पूर्वार्ध: प्रारभ्यते
-::००:-
प्रथमोऽध्यायः लिङ्गप्रादुर्भाववर्णनम्
ललाटे त्रैपुण्ड्री निटिलकृत कस्तूरितिलकः स्फुरन्मालाधारःस्फुरितकटिकौपीनवसनः दधानो दुस्तारं शिरसि फणिराजं शशिकलां प्रदीपः सर्वेषामरुणगिरियोगीविजयते
व्यास उवाच
अथाऽऽहुर्मुनयः सूतं नैमिषारण्यवासिनः । अरुणाचलमाहात्म्यं त्वत्तःशुश्रूषवोवयम् तन्माहात्म्यं वदेत्युक्तः सूतः प्रोवाच तान्मुनीन् । श्रीसूत उवाच
एतदर्थं चतुर्वक्त्रं पप्रच्छ सनकः पुरा ॥ ३ ॥
शृणुताऽवहिता यूयं तद्रवक्ष्यामि लाम्प्रतम् । यदाकर्णयतां भक्त्यानराणां पापनाशनम् सत्यलोके स्थितं पूर्वं ब्रह्माणं कमलासनम् । सनकः परिपप्रच्छप्रणतः प्राञ्जलिः स्थितः
प्रथमोऽध्यायः ] * विष्णुनाज्योतिःस्वरूपशिवप्रभाववणनम् *
सनक उवाच
६८५
भुवनाधार ! देवेश ! वेदवेद्य चतुर्मुख | आसीदशेषविज्ञानं प्रसादाद्भवतो मम ॥६॥ भवद्भक्तिविभूत्या मे शोधिते चित्तदर्पणे । विम्वते सकलं ज्ञानं सकृदेवोपदेशतः साराथं वेदवेदानां शिवज्ञानमनाकुलम् । लब्धवानहमत्यन्तं कटाक्षैस्ते जगद्गुरोः लिङ्गानि भुवि शैवानि दिव्यानि कृपानिधे । मानुषाणिचसैद्धानिभौतानि सुरनायक यलिङ्गममलं दिव्यमरिच्छेदनवैभवम् । स्वयम्भु जाम्बवे द्वीपे तैजसं तद्वदस्व मे नामस्मरणमात्रेण यत्पातकविनाशनम् | शिवसारूप्यदं नित्यं मह्यं वद दयानिधे ! ॥ अनादिजगदाधारं यत्तेजः शैवमध्ययम् । यच्च दृष्ट्रा कृतार्थः स्यात्तन्महमुपदिश्यताम् इति भक्तिमतस्तस्य कौतूहलसमन्वितम् । वाक्यामाकर्ण्य भगवान्प्रससादतपोनिधिः दध्यौ च सुचिरं [शम्भु पङ्कजासनसंस्थितः । अन्तरङ्गसुखाम्भोधिमग्नचे ताश्चतुर्मुखः ॥ १४ ॥
दृष्ट्रा यदापुरादृष्टं तेजः स्तम्ममयं शिवम् । उत्तीर्णंसकलाधारं नकिञ्चित्प्रत्यबुध्यत पुनराज्ञां शिवाल्लब्धामनुपालयितुं प्रभुः । निर्वर्त्य हृदयं योगात्सस्मार सुतमानतम् शिवदर्शनसतपुलकाङ्कितविग्रहः । आनन्दवाप्पवन्नेत्रः सगद्गद्द्मभाषत ||१७|| ब्रह्मोवाच
अन्तः संस्मारितःपुत्र भवताऽहं पुरातनम् । शिवयोगमनुध्यायन्नस्माषं तवचाऽऽदात् शिवभक्तिः परा जाता तपोभिर्बहुभिस्तव । तथा मदीयं हृदयं व्यावत्तितमिवक्षणात् पावयन्तिजगत्सवं चरितैस्ते निराकुले । येषां सदाशिवे भक्तिर्वर्द्धते सार्वकालिका सम्भाषणं सहावासः क्रीडा चैव विमिश्रणम् । दर्शनंशिवभक्तानांस्मरणंचाघनाशनम् श्रूयतामद्भुतं शैवमाविर्भूतं तथा पुरा । अव्याजकरुणापूर्ण मरुणाद्रयभिधं महः ॥२२॥ अहं नारायणश्वोभौ जातौ विश्वाधिकोदयात् । बहुस्यामिति सङ्कल्पं वितन्वानात्सदाशिवात् ॥ २३ ॥ स्वभावेनसमुद्भूतौ विवदन्तौ परस्परम् । नच श्रान्तौ नियुध्यन्तौ साहङ्कारौकदाचन परस्परं रणोत्साहमा वयोरतिभीषणम्। आलोक्य करुणामूर्तिरचिन्तयदथेश्वरः ॥